पंचषष्टियन्त्रगर्भित श्री चतुर्विंशतिजिनस्तोत्रम्
Panchashashti Yantra Garhit Sri Chaturvinshati Jin Stotram
वन्दे धर्मजिनं सदा सुखकरं, चन्द्रप्रभं नाभिजं,
श्रीमद्वीरजिनेश्वरं जयकरं, कुंथु च शान्ति जिनम् |
मुक्तिश्री-फलदाच्यनन्तमुनिपं, वन्दे सुपार्श्व विभुं,
श्रीमन्मेधनृपात्मजंच सुखदं, पार्श्व मनोडभीष्टदम् ……..1
श्रीनेमिश्वरसुव्रतौ च विमलं, पद्मप्रभं सांवरं, सेवे
सम्भवशंकर नमिजिनं, मल्लिं जयानन्दनम् ।
वन्दे श्रीजिनशीतलं च सुविधिं, सेवडजितं मुक्तिदं,
श्री संघ बत पंचविंशतितमं, साक्षादरं वैष्णवम्. 2
स्तोत्रं सर्वजिनेश्वरैरभिगतं, मंत्रेशु मंत्रं वरं,
एतत् संगतयन्त्र एव विजयो, द्रव्यैर्लिखित्वा शुभैः।
पार्श्व संघ्रियमाण एव सुखदो, मांगल्यमालाप्रदो,
वामांगे वनिता नरास्तदितरे, कुर्वन्ति ये भावतः .. 3
प्रस्थाने स्थितियुद्धवादकरणे, राजादिसन्दर्शने,
वश्यार्थे सुतहेतवे धनकृते, रक्षन्तु पार्श्व सदा,
मार्गे संविषमे ध्वाग्नि ज्वलिते चिन्तादिनिर्नाशने,
यन्त्रोडयं मुनिनेत्रसिंह-कविना, संग्रन्थितः सौख्यदः 4
अन्य जैन स्तोत्र
