श्री बृहद्शांति Shree Bruhadshanti
बृहद्शांति (Shree Bruhadshanti) स्नात्र एवम् पूजनो केअंत में, अंजनशलाका प्राणप्रतिष्ठा जैसे परम मांगलिक विधानों में इसकी प्रधान भूमिका होती है.इसमें चतुर्विध श्रीसंघ एवम् समस्त ब्रह्माण्ड के शांति की कामना की जाती है. इस स्तोत्र के पठन से 24 तीर्थंकर एवम् शासन रक्षक देवी देवताओं के प्रभाव से पाठक के सर्व प्रकार के रोग,शोक,संताप बैचेनी एवम् भयों को समाप्त करके जीवन में सकारात्मक उर्जा लाती है.
बृहद्शांति स्तोत्र(Shree Bruhadshanti)
भो भो भव्याः! शृणुत वचनं प्रस्तुतं सर्वमेतद्,
ये यात्रायां त्रि-भुवनगुरो-राऽऽर्हता! भक्तिभाजः!;
तेषां शान्तिर्भवतु भवता-मर्हदादि-प्रभावा-
दारोग्य-श्री-धृति-मति-करी क्लेशविध्वंस-हेतुः।।1।।
भो भो भव्य लोका! इह हि-भरतैरावत-विदेह-संभवानां, समस्त-तीर्थकृतां जन्मन्याऽऽसन-प्रकम्पा-नन्तरमवधिना विज्ञाय सौधर्माधिपतिः सुघोषा-घण्टा-चालनानन्तरं, सकल-सुरासुरेन्द्रः सह समागत्य, सविनयमर्हद्भट्टारकं गृहीत्वा, गत्वा कनकाद्रिशृङ्गे विहितजन्माभिषेकः शान्तिमुद्घोषयति यथा ततोऽहम् ‘कृतानुकारमिति’ कृत्वा, ‘महाजनो येन गतः स पन्थाः इति भव्यजनैः सह समेत्य स्नात्रपीठे स्नात्रं विधाय शान्तिमुद्घोषयामि तत् पूजा-यात्रा-स्नात्रादि-महोत्सवा-नन्तरमिति कृत्वाकर्ण दत्त्वा निशम्यतां निशम्यतां स्वाहा।।2।।
ॐ पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्ताम्, भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोक-पूज्या स्त्रिलोकेश्वरास्त्रिलोकोद्योतकराः।।3।।
ॐ ऋषभ-अजित-संभव-अभिनन्दन-सुमति-पद्मप्रभ सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्श्व-वर्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा।।4।।
ॐ मुनयो मुनिप्रवरा रिपु-विजय-दुर्भिक्ष-कान्तारेषु
दुर्ग-मार्गेषु रक्षन्तु वो नित्यं स्वाहा।।5।।
ॐ ह्रीं श्रीं धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधा-
विद्यासाधन-प्रवेश-निवेशनेषु सु-गृहीत-नामानो जयन्तु ते जिनेन्द्राः।।6।।
ॐ रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्रांकुशी-अप्रतिचक्रा-पुरुषदत्ता-काली-
महाकाली-गौरी-गान्धारी-सर्वास्त्रा-महा-ज्वाला-मानवी-वैरोट्या-अच्छुप्ता-मानसी-महामानसी षोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा।।7।।
ॐ आचार्योपाध्याय-प्रभृति-चातुर्वर्णस्य
श्री श्रमणसंघस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु।।8।।
ॐ ग्रहाश्चन्द्र-सूर्यांगारक-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतु-सहिताः स-लोकपालाः सोम-यम-वरुण-कुबेर वासवादित्य-स्कन्द-विनायकोपेता ये चान्येऽपि ग्राम-नगर-क्षेत्र-देवतादयस्ते सर्वे प्रीयन्तां प्रीयन्ताम्, अ-क्षीण-कोश- कोष्ठागारा नरपतयश्च भवन्तु स्वाहा।।9।।
ॐ पुत्र-मित्र-भ्रातृ-कलत्र-सुहृत्-स्वजन-संबन्धि-बन्धु-वर्ग-सहिताः
नित्यं चामोद-प्रमोद-कारिणः अस्मिंश्च भूमण्डल आयतन-निवासि-साधु-साध्वी-श्रावक-श्राविकाणां रोगो-पसर्ग व्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपशमनाय शान्तिर्भवतु।।10।।
ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-मांगल्योत्सवाः, सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि, शत्रवः पराङ्मुखा भवन्तु स्वाहा।।11।
श्रीमते शान्ति-नाथाय नमः शान्ति-विधायिने;
त्रैलोक्यस्यामराधीश-मुकुटाभ्यर्चितांघ्रये. ………..1
शान्तिः शान्तिकरः श्रीमान्, शान्तिं दिशतु मे गुरु;
शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे. ……….2
उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुर्निमित्तादिः
संपादित-हित-संपन्नाम-ग्रहणं जयति शान्तेः…………. 3
श्रीसंघजग-ज्जनपद-राजाधिप-राजसन्निवेशानाम्;
गोष्टिकपुरमुख्याणां, व्याहरणैर्व्याहरेच्छान्तिम्. ……… 4
श्री-श्रमण संघस्य शान्तिर्भवतु.
श्री-जनपदानां शान्तिर्भवतु.
श्री-राजाधिपानां शान्तिर्भवतु.
श्री-राजसन्निवेशानां शान्तिर्भवतु,
श्री-गोष्टिकानां शान्तिर्भवतु.
श्री-पौरमुख्याणां शान्तिर्भवतु.
श्री-पौरजनस्य शान्तिर्भवतु.
श्री-ब्रह्मलोकस्य शान्तिर्भवतु.
ॐ स्वाहा ॐ स्वाहा ॐ श्री पार्श्वनाथाय स्वाहा.
एषा शान्तिः प्रतिष्ठा-यात्रा-स्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुंकुम-चन्दन-कर्पूरागरु-धुपवास-कुसुमांजलि समेतः स्नात्र-चतुष्किकायां श्रीसंघसमेतः शुचि-शुचि-वपुः, पुष्प-वस्त्र-चन्दना-भरणालंकृतः पुष्पमालां कण्ठे कृत्वा, शान्तिमुद्घोष-यित्वा, शान्तिपानीयं मस्तके दातव्यमिति.
नृत्यन्ति नृत्यं मणिपुष्पवर्षं, सृजन्ति गायन्ति च मंगलानि;
स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्,कल्याणभाजो हि जिनाभिषेके..१
शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः;
दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः. ………..२
अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनि-वासिनी;
अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु स्वाहा…. ३
उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः;
मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे. ………………..४
सर्वमंगलमांगल्यं, सर्वकल्याणकारणम्;
प्रधानं सर्वधर्माणां, जैनं जयति शासनम्. …………….५
अन्य जैन स्तोत्र संग्रह