नमस्कारमंत्राधिराजस्तोत्रम् Namaskar Mantradhiraja Stotram
यः सर्वदुःख दलने किल कल्पवृक्ष-श्चिंतामणी शुभमनोरथ पूरणे सः कन्दर्पदर्पदलनैकविधौ दवाग्नि र्लोकत्रये विजयते परमेष्ठिमंत्रः …१
सर्वागमश्रुत समुद्र सुधेन्दु सारः चारित्रचंदनवनं सदनं सुखानां कल्याण कुन्दनखनिर्दमनं दराणं, लोकत्रये विजयते परमेष्ठिमंत्रः …२
संसारसागरनिमज्जदपूर्वनौका सिद्धौषधिर्विविधरोगविनाशने च निःशेषलब्धिबलबोधतरोश्च बीजं लोकत्रये विजयते परमेष्ठिमंत्रः …३
सूर्यसहस्रकिरणैर्हरति तमांसि सिंहो यथा गजगणांश्च नखैर्निहन्ति, संसारवर्ति दुरितानि तथैव मंत्रो लोकत्रये विजयते परमेष्ठिमंत्रः …४
पद्माकरे रुचिररश्मिभिरौषधीशं शीघ्र प्रबोधयति निद्रितकैरवाणि। अन्तः सुषुप्तगुणपद्मदलानि चैवं लोकत्रये विजयते परमेष्ठिमंत्रः …५
भूमंडलेषु शुभवस्तु न विद्यते तत् ध्यानेन यस्य ननु यन्नहि साधनीयम् दुःखं न तद् भवति यस्य विनाशनं नो लोकत्रये विजयते परमेष्ठिमंत्रः …६
श्रीपालदेवधरणेन्द्रसुदर्शनाद्या पल्लिपतिश्च शिवकंबलशंबलाद्याः ध्यात्वा हि यं पद्मगुः परमं पवित्रं लोकत्रये विजयते परमेष्ठिमंत्रः …७
भक्त्या दधाति हृदि यो ननु मंत्रराजं दिव्यां गतिं व्रजति नूतनमुक्तिमोदं चूर्णीकरोति भवसंचितकर्मशैलं लोकत्रये विजयते परमेष्ठिमंत्रः … ८
अन्य जैन स्तोत्र संग्रह
