Shree Gautam Astak श्री गौतम अष्टक
श्रीइंद्रभूर्ति वसुभूतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्नम्; स्तुवन्ति देवाः सुरमानवेन्द्राः स गौतमो यच्छतु वाञ्छितं मे १
श्रीवर्द्धमानात् त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन, अंगानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वाञ्छितं मे……२
श्रीवीरनाथेन पुरा प्रणीतं, मंत्रं महानंदसुखाय यस्यः ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे .. ३
यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षाभ्रमणस्य काले; मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे…….४
अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवंदनाय; निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ….५
त्रिपञ्चसंख्या शततापसानां, तपःकृशानामपुनर्भवाय; अक्षीणलब्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे ……६
सदक्षिणं भोजनमेव देयं, साधर्मिकं संघसपर्ययेति; कैवल्यवस्त्रं प्रददौ मुनीनां, स गौतमो यच्छतु वाञ्छितं मे……७
शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा; पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं मे … ८
त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ञानबीजं जिनराजबीजं; यन्नाम चोक्तं विदधाति सिद्धिं, स गौतमो यच्छतु वाञ्छितं मे ..९
श्रीगौतमस्याष्टकमादरेण, प्रबोधकाले मुनिपुंगवा ये, पठन्ति ते सूरिपदं सदैवा-नन्दं लभन्ते सुतरां क्रमेण …१०
।। Shree Gautam Astak श्री गौतम अष्टक ।।
अन्य जैन स्तोत्र संग्रह