।।भक्तामर स्तोत्र Bhaktamer Stotra।।
Bhaktamer Stotra : भक्तामर स्तोत्र की रचना आचार्य मानतुंग ने की थी। राजा भोज के द्वारा कारागार (जेल) में डाले जाने और 44 बेडियों-तालों से जकडे जाने पर. आचार्य ने प्रथम तीर्थकर आदिनाथ की स्तृति में इन 44 श्लोकों की रचना की थी।स्तृति के पूर्ण होने पर सभी बेड़ियाँ और ताले स्वयं टू गए थे, और राजा को अपनी गलती का अहसास हआ था। यदि श्रब्धा के साथ इस 44 श्लोक का पाठ या श्रवण करने से दरिद्रता मिटती है, बूरी नज़र व नकारात्मक ऊर्जा का नाश होता है, और सुख-शांति की प्राप्ति होती है।
भक्तामर-प्रणत-मौलि-मणि-प्रभाणा, मुद्योतकं दलित-पाप-तमो-वितानम्;
सम्यक् प्रणम्य जिन-पाद-युगं युगादा, वालम्बनं भव-जले पततां जनानाम् ……….१
यः संस्तुतः सकल-वाङ्मय-तत्त्व-बोधा-
दुद्भूत-बुद्धि-पटुभिः सुर-लोक-नाथैः;
स्तोत्रैर्जगत्रितय-चित्तहरैरुदारैः,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्……… २
बुद्ध्या विनापि विबुधार्चित-पादपीठ !
स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम्;
बालं विहाय जल-संस्थितमिन्दुबिम्ब,
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ! …….३
वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्,
कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्ध्या;
कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं,
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ?…….. ४
सोऽहं तथापि तव भक्तिवशान्मुनीश !,
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः;
प्रीत्यात्म-वीर्यमविचार्य मृगो मृगेन्द्रं,
नाभ्येति किं निजशिशोः परिपालनाऽर्थम् ……… ५
अल्प-श्रुतं श्रुतवतां परिहास-धाम,
त्वद्-भक्तिरेव मुखरीकुरूते बलान्माम्;
यत्कोकिलः किल मधौ मधुरं विरौति,
तच्चारु-चूत-कलिका-निकरैकहेतुः……….६
त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं,
पापं क्षणात्क्षयमुपैति शरीरभाजाम्;
आक्रान्त-लोकमलि-नीलमशेषमाशु,
सूर्यांशु-भिन्नमिव शार्वरमन्धकारम्…………७
मत्वेति नाथ! तव संस्तवनं मयेद,
-मारभ्यते तनुधियापि तव प्रभावात्;
चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ताफल-द्युतिमुपैति ननूदबिन्दुः ………८
आस्तां तव स्तवनमस्त-समस्त-दोषं,
त्वत्संकथापि जगतां दुरितानि हन्ति;
दूरे सहस्रकिरणः कुरुते प्रभैव,
पद्माकरेषु जलजानि विकाशभांजि……….. ९
नात्यद्भुतं भुवनभूषण ! भूत-नाथ!,
भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः;
तुल्या भवन्ति भवतो ननु तेन किं वा?,
भूत्याश्रितं य इह नात्मसमं करोति ?…………१०
दृष्ट्वा भवन्तमनिमेष-विलोकनीयं,
नान्यत्र तोषमुपयाति जनस्य चक्षुः;
पीत्वा पयः शशि-करद्युति-दुग्ध-सिन्धोः,
क्षारं जलं जल-निधेरशितुं क इच्छेत् ? ……..११
यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं,
निर्मापितस्त्रिभुवनैक-ललाम-भूत !;
तावन्त एव खलु तेऽप्यणवः पृथिव्यां,
यत्ते समानमपरं नहि रूपमस्ति………१२
वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि.
निःशेषनिर्जित-जगत्त्रितयोपमानम् ?;
बिम्बं कलंक-मलिनं क्व निशाकरस्य?,
यद्वासरे भवति पाण्डु-पलाश-कल्पम्…………१३
संपूर्ण-मण्डल-शशांक-कला-कलाप-
शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति;
ये संश्रितास्त्रिजगदीश्वर नाथमेकं,
कस्तान्निवारयति संचरतो यथेष्टम् ?………..१४
चित्रं किमत्र यदि ते त्रिदशांगनाभि-
र्नीतं मनागपि मनो न विकारमार्गम्?;
कल्पान्त-काल-मरुता चलिताचलेन,
किं मंदराद्रि-शिखरं चलितं कदाचित् ?………….१५
निर्धूम-वर्त्तिपवर्जित-तैल-पूरः,
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि;
गम्यो न जातु मरुतां चलिताचलानां,
दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः ………..१६
नास्तं कदाचिदुपयासि न राहुगम्यः,
स्पष्टीकरोषि सहसा युगपज्जगन्ति;
नाम्भोधरोदरनिरुद्ध-महाप्रभाव:,
सूर्यातिशायि-महिमासि मुनीन्द्र ! लोके…………. १७
नित्योदयं दलित-मोहमहान्धकारं,
गम्यं न राहु-वदनस्य न वारिदानाम्;
विभ्राजते तव मुखाब्जमनल्पकान्ति,
विद्योतयज्जगदपूर्व-शशांक-बिम्बम्……….. १८
किं शर्वरीषु शशिनाह्नि विवस्वता वा?,
युष्मन्मुखेन्दु दलितेषु तमस्सु नाथ!,
निष्पन्न-शालिवनशालिनि जीव लोके,
कार्य कियज्जलधरैर्जलभार-नम्रै:?………..१९
ज्ञानं यथा त्वयि विभाति कृतावकाशं,
नैवं तथा हरि-हरादिषु नायकेषु;
तेजः स्फुरन्मणिषु याति यथा महत्त्वं,
नैवं तुं काच-शकले किरणाकुलेऽपि……..२०
मन्ये वरं हरिहरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति;
किं वीक्षितेन भवता भुवि येन नाऽन्यः;
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि……….२१
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,
नान्या सुतं त्वदुपमं जननी प्रसूता;
सर्वा दिशो दधति भानि सहस्ररश्मिं,
प्राच्येव दिग्जनयति स्फुरदंशुजालम्………..२२
त्वामामनन्ति मुनयः परमं पुमांस-
मादित्यवर्णममलं तमसः परस्तात्;
त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं,
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः……….२३
त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं,
ब्रह्माणमीश्वरमनन्तमनंगकेतुम्;
योगीश्वरं विदितयोगमनेकमेकं,
ज्ञानस्वरूपममलं प्रवदन्ति संतः………..२४
बुद्धस्त्वमेव विबुधार्चित-बुद्धिबोधात्,
त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात्,
धाताऽसि धीर! शिवमार्ग-विधेर्विधानात्,
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि………२५
तुभ्यं नमस्त्रिभुवनार्ति-हराय नाथ!,
तुभ्यं नमः क्षितितलामल-भूषणाय !;
तुभ्यं नमस्त्रिजगतः परमेश्वराय !;
तुभ्यं नमो जिन! भवोदधि-शोषणाय………..२६
को विस्मयोऽत्र ? यदि नाम गुणैरशेषै-
स्त्वं संश्रितो निरवकाशतया मुनीश !;
दोषैरुपात्त-विविधाश्रय-जात-गर्वैः,
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि. ……….२७
उच्चैरशोक-तरु-संश्रितमुन्मयूख-
माभाति रूपममलं भवतो नितान्तम्;
स्पष्टोल्लसत्किरणमस्त-तमो-वितानं,
बिम्बं रवेरिव पयोधर-पार्श्व-वर्ति. ………….२८
सिंहासने मणि-मयूख-शिखा-विचित्रे,
विभ्राजते तव वपुः कनकावदातम्;
बिम्बं वियद्विलसदंशु-लता-वितानं,
तुंगोदयाद्रि-शिरसीव सहस्र-रश्मेः ………..२९
कुन्दावदात-चल-चामर-चारु-शोभं,
विभ्राजते तव वपुः कलधौत-कान्तम्;
उद्यच्छशांक-शुचिनिर्झर-वारि-धार-
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम्…………३०
छत्रत्रयं तव विभाति शशांककान्त,
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम्;
मुक्ताफल-प्रकर-जाल-विवृद्ध-शोभं,
प्रख्यापयत्रिजगतः परमेश्वरत्वम्………..३१
उन्निद्र-हेम-नव-पंकज-पुंज-कान्ति,
पर्युल्लसन्नख-मयूख-शिखाभिरामौ;
पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः,
पद्मानि तत्र विबुधाः परिकल्पयन्ति. ……….३२
इत्थं यथा तव विभूतिरभूज्जिनेन्द्र !,
धर्मोपदेशन-विधौ न तथा परस्य;
यादृक् प्रभा दिनकृतः प्रहतान्धकारा,
तादृक् कुतो ग्रह-गणस्य विकाशिनोऽपि ? ………३३
श्च्योतन्मदाविल-विलोल-कपोल मूल-
मत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम्;
ऐरावताभमिभमुद्धतमापतन्तं,
दृष्ट्वा भयं भवति नो भवदाश्रितानाम्. ……….३४
भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त-
मुक्ताफल-प्रकर-भूषित-भूमि-भागः;
बद्ध-क्रमः क्रमगतं हरिणाधिपोऽपि,
नाक्रामति क्रम-युगाचल-संश्रितं ते. ………..३५
कल्पान्त-काल-पवनोद्धत-वह्नि-कल्पं,
दावानलं ज्वलितमुज्ज्वलमुत्फुलिंगम्;
विश्वं जिघत्सुमिव संमुखमापतन्तं,
त्वन्नाम-कीर्तन-जलं शमयत्यशेषम्. ………३६
रक्तेक्षणं स मद-कोकिल-कण्ठ-नीलं,
क्रोधोद्धतं फणिनमुत्फणमापतन्तम्;
आक्रामति क्रम-युगेन निरस्त-शंक-
स्त्वन्नाम-नागदमनी हृदि यस्य पुंसः. ……….३७
वल्गत्तुरंग-गज-गर्जित-भीम-नाद-
माजौ बलं बलवतामपि भूपतीनाम्;
उद्यद्दिवाकर-मयूख-शिखापविद्धं,
त्वत्कीर्तनात्तम इवाशु भिदामुपैति. ………..३८
कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह-
वेगावतार-तरणातुर-योध-भीमे;
युद्धे जयं विजितदुर्जय-जेय-पक्षा-
स्त्वत्पादपंकज-वनाश्रयिणो लभन्ते. ………३९
अम्भोनिधौ क्षुभित-भीषण-नक्र-चक्र-
पाठीन-पीठ-भय-दोल्बण-वाडवाग्नौ;
रंगत्तरंग-शिखर-स्थित-यानपात्रा-
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति. ……….४०
उद्भूत भीषण-जलोदर-भार-भुग्नाः,
शोच्यां दशामुपगताश्च्युत-जीविताशाः;
त्वत्पाद-पंकज-रजोऽमृत-दिग्धदेहा,
र्मत्या भवन्ति मकरध्वज-तुल्य रूपाः. ………४१
आपादकण्ठमुरु शृंखल-वेष्टितांगा,
गाढं बृहन्निगड-कोटि-निघृष्ट-जंघाः;
त्वन्नाम मन्त्रमनिशं मनुजाः स्मरन्तः,
सद्यः स्वयं विगत-बन्ध-भया भवन्ति. ……….४२
मत्त-द्विपेन्द्र-मृग-राज-दवानलाहि-
संग्राम-वारिधि-महोदर-बन्धनोत्थम्;
तस्याशु नाशमुपयाति भयं भियेव,
यस्तावकं स्तवमिमं मतिमानधीते. ………..४३
स्तोत्र-स्रजं तव जिनेन्द्र ! गुणैर्निबद्धां,
भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम्;
धत्ते जनो य इह कण्ठ-गतामजत्रं,
तं मान-तुंगमवशा समुपैति लक्ष्मीः. ………..४४
।।भक्तामर स्तोत्र Bhaktamer Stotra।।
अन्य जैन स्तोत्र संग्रह