No.26 Shree Shantidhara Path

सर्वकार्यसिद्धिदायक श्रीशान्तिधारा पाठः

Shree Shantidhara Path

ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं वंवं मंमं हंहं संसं तंतं पंपं डंडं म्वीं म्वीं क्ष्वीं क्ष्वीं द्राँ द्राँ द्रीं द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ॐ ह्रीं क्रों मम पापं खण्डय खंडय हन हन दह दह पच पच पाचय पाचय सिद्धिं कुरु कुरु.

ॐ नमोऽर्ह डं म्वीं क्ष्वीं हं सं डं वं व्ह पः हः क्षाँ क्षीं क्षूॅं क्षैं क्षौं क्षं क्षः १

 ॐ ह्रॅं,ह्रॉंं,ह्रिं,ह्रीं,ह्रुॅं,ह्रूॅं,ह्रें,ह्रैं,ह्रों,ह्रौं,ह्रॅं ह्रः असिआउसाय नमः मम पूजकस्य ऋद्धि वृद्धिं कुरु कुरु स्वाहा.

ॐ नमोऽर्हते भगवते श्रीमते ङः ङः ङः मम श्रीरस्तु वृद्धिरस्तु तुष्टिरस्तु पुष्टिरस्तु शान्तिरस्तु कान्तिरस्तु कल्याणमस्तु मम कार्यसिद्ध्यर्थं सर्वविघ्ननिवारणार्थं श्रीमद्भगवते सर्वो-त्कृष्ट त्रैलोक्यनाथार्चित पादपद्‌म-अर्हत्-परमेष्ठि-जिनेन्द्र-देवाधिदेवाय नमोनमः। 

मम श्री शान्तिदेव-पादप‌द्मप्रसादात् सधर्म-श्री-बलायुरा रोग्यैश्वर्याभिवृद्धिरस्तु, स्वस्तिरस्तु, धन- धान्यसमृद्धिरस्तु, श्रीशांतिनाथो मां प्रति प्रसीदतु, श्री वीतरागदेवो मां प्रति प्रसीदतु, श्री जिनेन्द्रः परममांगल्य-नामधेयो ममेहामुत्र च सिद्धिं तनोतु.

ॐ नमोऽर्हते भगवते श्रीमते श्रीचिन्तामणिपार्श्वनाथाय, तीर्थंकराय, रत्नत्रयरूपाय, अनंतचतुष्टयसहिताय, धरणेन्द्र-फणमौलिमण्डिताय, समवसरण लक्ष्मीशोभिताय, इन्द्र-धरणेन्द्र चक्रर्वत्यादि पूजितपादपद्‌माय, केवलज्ञान-लक्ष्मी-शोभिताय, जिनराजमहादेवाष्टादशदोष-रहिताय, षट् चत्वारिंशद्‌गुणसंयुक्ताय, परम गुरुपरमात्मने, सिद्धाय, बुद्धाय, त्रैलोक्य परमेश्वराय, देवाय, सर्वसत्त्वहितकराय, धर्म-चक्राधीश्वराय, सर्वविद्यापरमेश्वराय, त्रैलोक्यमोहनाय, धरणेन्द्र-प‌द्मावतीसहिताय, अतुलबलवीर्यपराक्रमाय,

अनेक दैत्य-दानवकोटिमुकुटधृष्टपादपीठाय, ब्रह्मा विष्णु-रुद्र-नारद- खेचरपूजिताय, सर्वभव्यजनानन्दकराय, सर्वजीव विघ्न-निवारणसमर्थाय, श्रीपार्श्वनाथदेवाधिदेवाय नमोऽस्तु ते श्रीजिनराजपूजनप्रसादाद् मम सेवकस्य सर्वदोषरोग-शोकभयपीडाविनाशनं कुरु कुरु सर्व शान्तिं तुष्टिं पुष्टिं कुरु कुरु स्वाहा.

ॐ नमो श्रीशान्तिदेवाय सर्वारिष्टशान्तिकराय ह्रॉंं ह्रीं ह्रूॅं,ह्रें ह्रः असिआउसा मम सर्वविघ्नशान्तिं कुरु कुरु श्री संघस्य. (अमुकस्य.) मम तुष्टिं पुष्टिं कुरु कुरु स्वाहा

श्री पार्श्वनाथ पूजनप्रासादाद् मम अशुभान् पापान् छिन्धि २, मम अशुभकर्मोपार्जितदुःखान् छिन्धि २, मम परदुष्टजनकृत मंत्र-तंत्र-दृष्टि-पुष्टि-छलच्छिद्रादि- दोषान् छिन्धि २, मम अग्नि-चोर-जल-सर्प व्याधिं छिन्धि २, मारीकृतोपद्रवान् छिन्धि २. डाकिनी शाकिनी भूत-भैरवादिकृतोपद्रवान् छिन्धि २. सर्वभैरवदेवदानव-वीरनरनार-सिंहयोगिनीकृतविघ्नान् छिन्धि २, भुवनवासि – व्यंतर – ज्योतिषी – विमानवासीय – देवदेवी – कृतदोषान् छिन्धि २.

अग्निकुमार कृतविघ्नान् छिन्धि २. उदधिकुमार-सनत्कुमारकृतविघ्नान् छिन्धि २, दीपकुमारभयान् छिन्धि २, भिन्धि २. वातकुमार मेघकुमार कृतविघ्नान् छिन्धि २ भिन्धि २, इन्द्रादि दश दिक्पालदेव कृतविघ्नान् छिन्धि-२, जय-विजय-अपराजित माणिभद्र पूर्णभद्रादि क्षेत्रपाल कृत विघ्नान् छिन्धि..२ राक्षस वैताल दैत्य दानव यक्षादि कृत दोषान् छिन्धि २. नवग्रह कृत ग्रामनगरपीडां छिन्धि २, सर्व अष्टकुल-नागजनित विषभयान् सर्वग्रामनगर देशरोगान् छिन्धि…२

सर्वस्थावर जंगम वृश्चिक दृष्टि विषजाति-र्सप्पादि कृत विष- दोषान् छिन्धि २, सर्वसिंहाष्टापद व्याघ्र-व्यालवनचर-जीवभयान् छिन्धि २

परशत्रुकृतमारणो-च्चाटन विद्वेषणमोहनवशी करणादि-दोषान् छिन्धि २,भिन्धि २.

सर्वगो-वृषभादि-तिर्यग्मारीं छिन्धि २.

सर्व-वृक्ष-फल-पुष्प-लता-मारीं छिन्धिं २,

ॐ नमो भगवति। चक्रेश्वरि ज्वालामालिनी प‌द्मावतीदेवी अस्मिन् जिनेन्द्रभुवने आगच्छ २, एहि २ तिष्ठ २ बलिं गृहाण २ मम धनधान्यसमृद्धिं कुरु २, सर्वभव्यजीवानन्दं कुरु २, सर्वदेश-ग्राम-पुर-मध्यक्षुद्रोपद्रव सर्व-दोष-मृत्यु-पीडा विनाशनं कुरु…२।। सर्वपरचक्रभयनिवारौणं कुरु.२. सर्वदेशग्रामपुरमध्यक्षुद्रोपद्रव – सर्वदोषमृत्युपीडाविनाशनं कुरु २, सर्वदेशग्रामपुरमध्यसुभिक्षं कुरु २, सर्व विघ्नशांतिं कुरु २ स्वाहा

ॐ आँ क्रौं ह्रीं श्रीं वृषभादिवर्धमानान्तचतुर्विंशति-तीर्थंकरमहादेवाः प्रीयन्तां २ मम पापानि शाम्यन्तु, घोरोपसर्गाः सर्वविघ्नाः शाम्यन्तु ॐ आँ क्रौं ह्रीं श्रीं रोहिण्यादिमहादेव्यः अत्र आगच्छन्तु २ सर्वदेवताः प्रीयन्तां २.

ॐ आँ क्रौं ह्रीं श्रीं वर्धमानस्वामी- गौतमस्वामी- धर्मचक्र – तीर्थाधिष्टायिकाःदेवदेव्यः श्री पार्श्वपुरम्तीर्थाधिष्ठायिका दिव्यपद्‌मावतीदेवी वर्धमानविद्याधिष्ठायीन्यः जयाविजया-जयंताऽपराजितादेव्यः

सूरिमंत्राधिष्ठायिकाः भगवती सरस्वती देवीत्रिभुवनुस्वामिनीदेवी-श्रीदेवी-यक्षराजगणी-पिटक-चतुषष्ठीसुरेन्द्रा-षोडश-विद्यादेव्य-चतुर्विंशतियक्षाः चतुर्विशति यक्षिण्यः प्रियन्तां २, मम अज्ञान निवारण-सारस्वत-रोगापहारिणीविषापहारिणी-बंधमोक्षणी-श्री-लक्ष्मीसंपादनी-परमंत्रविद्याछेदिनी-दोषनाशिनी-अशिवो-पशमनी-विद्यासिद्धिं कुर्वन्तु, मम बाहुबलीविद्या-सौभाग्या-विद्या-जयविजयादिस्वप्न-विद्यासिद्धिं कुरुत २. विजयाजया-जयंती नंदाभद्रादेव्यः सान्निध्यं कुर्वन्तु २.. जैनशासन प्रत्यनीक निवारणं कुर्वन्तु २.. मम सर्वकार्यसिद्धिं कुर्वन्तु २ स्वाहा..

ॐ आँ क्रौं ह्रीं श्रीं चक्रेश्वरी ज्वालामालिनी प‌द्मावती महादेवी प्रीयन्तां २

ॐ आँ क्रौं ह्रीं श्रीं माणिभद्रादि यक्षकुमारदेवाः प्रीयन्ताम् २ सर्व जिनशासनरक्षकदेवाः प्रीयन्तां २

 श्री आदित्य सोम मङ्गल बुध बृहस्पति शुक्र शनि राहु केतवः सर्वे नवग्रहाः प्रीयन्तां प्रसीदंतु देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवान् जिनेन्द्रः

यत्सुखं त्रिषु लोकेषु, व्याधिव्यसनवर्जितम् । अभयं क्षेममारोग्यं स्वस्तिरस्तु च मे सदा …

यदर्थं क्रियते कर्म, सप्रीतिनित्यमुत्तमम् । शान्तिकं पौष्टिकं चैव, सर्वकार्येषु सिद्धिदम् २

 

Shree Shantidhara Path सर्वकार्यसिद्धिदायक श्रीशान्तिधारा पाठःसमाप्तम्

अन्य जैन स्तोत्र संग्रह

ऊँकार विद्या स्तवन 

 

 

Leave a comment

Your email address will not be published. Required fields are marked *