Shri Chintamani Parshwanath Stotra : श्री चिंतामणी पार्श्वनाथ स्तोत्र में ओमकार और ह्रींकार से युक्त श्री चिंतामणि मंत्र बताया गया है। इसके प्रभाव से साधक को मोक्ष की प्राप्ति होती है। इस स्तवन से साधक को मनोवांछित फल ऐश्वर्य सभी प्रकार के पुरुषार्थ की प्राप्ति करने में सहायक यह स्तोत्र चिंतामणि समान है। इस स्तोत्र में भगवान श्रीपार्श्वनाथ की विविध प्रकार से स्तवना की गई है।
Shri Chintamani Parshwanath Stotra श्री चिंतामणिपार्श्वनाथ स्तोत्रम्
किं कर्पूरमयं सुधारसमयं, किं चन्द्ररोचिर्मयम् ।
किं लावण्यमयं महामणिमयं, कारुण्यकेलिमयम् ।
विश्वानंदमयं महोदयमयं, शोभामयं चिन्मयम् ।
शुक्लध्यानमयं वपुर्जिनपतेर्भूयाद्भवालम्बनम् ……..१
पातालं कलयन् धरां धवलयन्नाकाशमापूरयन्,
दिक्चक्रं क्रमयन् सुरासुरनरश्रेणिं च विस्मापयन् ।
ब्रह्माण्डं सुखयन् जलानि जलधेः, फेणच्छलालोलयन् ।
श्री चिंतामणिपार्श्वसंभवयशो, हंसश्चिरं राजते …….२
पुण्यानां विपणिस्तमोदिनमणिः, कामेभकुम्भश्रृणिः
मोक्षेनिस्सरणिः सुरेन्द्रकरणी, ज्योतिःप्रभासारणिः ।
दाने देवमणिर्नतोत्तमजनश्रेणिः कृपासारिणि,
र्विश्वानंदसुधाघृणिर्भवभिदे, श्रीपार्श्वचिन्तामणिः ….३
श्री चिंतामणिपार्श्वविश्वजनतासंजीवनस्त्वं मया,
दृष्टस्तात ! ततः श्रियः समभवन्-नाशक्रमाचक्रिणम्
मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्धं मनोवाञ्छितम्,
दुर्दैवं दुरितं च दुर्गतिभयं, कष्टं प्रणष्टं मम ……….४
यस्य प्रौढतमप्रतापतपनः, प्रोद्दामधामा जगज्,-
जंघालः कलिकालकेलिदलनो, मोहान्धविध्वंसकः ।
नित्योद् द्योतपदं समस्तकमलाकेलिगृहं राजते,
स श्रीपार्श्वजिनो जने हित कृते चिंतामणिः पातु माम् …५
विश्वव्यापितमो हिनस्ति तरणि-र्बालोऽपि कल्पांकुशो,
दारिद्रयाणि गजावलिं हरिशिशुः काष्टानि वह्नेःकणः।
पीयूषस्य लवोऽपि रोगनिवहं यद्वत् तथा ते विभो,
मूर्तिः स्फूर्तिमती सती त्रिजगति कष्टानि हर्तुं क्षमः ….६
श्रीचिंतामणिमंत्रमोंकृतियुतं, ह्रींकारसाराश्रितं,
श्रीमर्हं नमिऊणपासकलितं त्रैलोक्यवश्यावहम्,
द्वेधाभूतविषापहं विषहरं श्रेयःप्रभावाश्रयम्,
सोल्लासं वसहांकितं जिनफुलिंगानंदनं देहिनाम् ……७
ह्रीं श्रींकारवरं नमोऽक्षरपरं, ध्यायन्ति ये योगिनो,
हृत्पद्मे विनिवेश्य पार्श्वमधिपं, चिंतामणीसंज्ञकम् ।
भाले वामभुजे च नाभिकरयो-र्भूयो भुजे दक्षिणे,
पश्चादष्टदलेषु ते शिवपदं द्वित्रैर्भवैर्यान्त्यहो (र्भान्त्यहो) ….८
नो रोगा नैव शोका न कलहकलना नारिमारिप्रचाराः,
नैवाधिर्नासमाधिर्न च दुरदुरिते, दुष्टदारिद्रयता नो।
नो शाकिन्यो ग्रहा नो हरिकरिगणा, व्यालवैतालजाला,
जायन्ते पार्श्वचिन्तामणिनतिवशतः, प्राणिनां भक्तिभाजाम् …….९
गीर्वाणद्रुमधेनुकुंभमणयस्तस्यांऽगणे रंगिणो,
देवा दानवमानवा सविनयं, तस्मै हितध्यायिनः ।
लक्ष्मीस्तस्य वशावशैव गुणीनां, ब्रह्माण्डसंस्थायिनी,
श्रीचिन्तामणिपार्श्वनाथमनिशं, संस्तौति यो ध्यायते …………१०
इति जिनपतिपार्श्वः पार्श्वपार्श्वख्ययक्षः,
प्रदलितदुरितौघः प्रीणितप्राणिसार्थः ।
त्रिभुवनजनवाञ्छा दानचिंतामणीकः,
शिवपदतरुबीजं बोधिबीजं ददातु …………….११
Shri Chintamani Parshwanath Stotra श्री चिंतामणी पार्श्वनाथ स्तोत्र
अन्य जैन स्तोत्र संग्रह
महामंत्रगर्भित श्री कलिकुंड पार्श्वनाथ स्तोत्रम्
श्री जीरावल्ला पार्श्वनाथ स्तोत्र