Mantradhiraja Parshva Stotra : श्री मंत्राधिराज पार्श्वस्तोत्र इस स्रोत में पार्श्वनाथ परमात्मा के एक सौ आठ नाम से स्तवना की गई है। त्रिसन्ध्यं यः पठेन्नित्यं, नित्यं प्राप्नोति स श्रियम् मतलब जो व्यक्ति इस स्तोत्र का पाठ त्रिकाल यानी कि सुबह दोपहर शाम पूर्ण श्रद्धा के साथ करता है।उसे निश्चित तौर से लक्ष्मी सुख समृद्धि की प्राप्ति होती है।
।।श्री मंत्राधिराज पार्श्वस्तोत्र Mantradhiraja Parshva Stotra।।
श्रीपार्श्वः पातु वो नित्यं, जिनः परमशंकर;
नाथः परमशक्तिश्च, शरण्यः सर्वकामदः ……….१
सर्व विघ्नहरः स्वामी, सर्वसिद्धिप्रदायकः;
सर्वसत्त्वहितो योगी, श्रीकरः परमार्थदः ……… २
देवदेवः स्वयंसिद्ध, श्चिदानन्दमयः शिवः,
परमात्मा परब्रह्मा, परमः परमेश्वरः ……….….३
जगन्नाथः सुरज्येष्ठो, भूतेशः पुरुषोत्तमः;
सुरेन्द्रो नित्यधर्मश्च, श्रीनिवासः शुभार्णवः ……. ४
सर्वज्ञः सर्वदेवेशः, सर्वदः सर्वगोत्तमः;
सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरुः ……५
तत्त्वमूर्तिः परादित्यः, परब्रह्मप्रकाशकः,
परमेन्दुः परप्राणः, परमामृतसिद्धिदः ………..६
अजः सनातनः शम्भु-रीश्वरश्च सदाशिवः;
विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ……. ७
साकारश्च निराकारः सकलो निष्कलोऽव्ययः;
निर्ममो निर्विकारश्च निर्विकल्पो निरामयः ……..८
अमरश्चाजरोऽनन्त, एकोऽनन्तः शिवात्मकः
अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरंजनः ……..९
ॐकाराकृतिरव्यक्तो, व्यक्तरूपस्रयीमयः;
ब्रह्मद्वयप्रकाशात्मा, निर्भयः परमाक्षरं ……….१०
दिव्यतेजोमयः शान्तः, परमामृतमयोऽच्युतः;
आद्योऽनाद्यः परेशानः, परमेष्टी परःपुमान्. ………११
शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः;
व्योमाकारस्वरूपश्च, लोकाऽलोकावभासकः ……..१२
ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः;
मनःसाध्यो मनोध्येयो, मनोदृश्य परापरः …………१३
सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः;
भगवान् सर्वतत्त्वेशः, शिवश्रीसौख्यदायकः ………१४
इति श्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः,
दिव्यमष्टोत्तरं नाम-शतमत्र प्रकीर्त्तितम् ………….१५
पवित्रं परमं ध्येयं, परमानन्ददायकम्;
भुक्तिमुक्तिप्रदं नित्यं, पठतां मङ्गलप्रदम् ………..१६
श्रीमत्परमकल्याण-सिद्धिदः श्रेयसेऽस्तु वः
पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः ……१७
धरणेन्द्र-फणच्छत्रा-लंकृतो वः श्रियं प्रभुः;
दद्यात्पद्द्मावतीदेव्या, समधिष्ठितशासनः ……….१८
ध्यायेत्कमलमध्यस्थं श्रीपार्श्वजगदीश्वरम्;
ॐ ह्रीं श्रीं अर्ह समायुक्तं, केवलज्ञानभास्करम् …..१९
पद्मावत्यान्वितं वामे, धरणेन्द्रेण दक्षिणे;
परितोऽष्टदलस्थेन, मन्त्रराजेन संयुतम् ………….२०
अष्टपत्रस्थितैः पंचनमस्कारैस्तथा त्रिभिः;
ज्ञानाद्यैर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् …………२१
शतषोडशदलारूढं, विद्यादेवीभिरन्वितम्,
चतुर्विंशतिपत्रस्थं, जिनं मातृसमावृतम् ………….२२
मायावेष्ट्यं त्रयाग्रस्थं, क्रौंकारसहितं प्रभुम्;
नवग्रहावृतं देवं, दिक्पालैर्दशभिर्वृतम् ……….…२३
चतुष्कोणेषु मन्त्राद्यैश्चतुर्बीजान्वितैर्जिनैः;
चतुरष्टदशद्वीति, द्विधांकसंज्ञकैर्युतम् …………..२४
दिक्षु क्षकारयुक्तेन, विदिक्षु लांकितेन च;
चतुरस्रेण वज्रांक, क्षितितत्त्वे प्रतिष्ठितम् ……….२५
श्री पार्श्वनाथमित्येवं, यः समाराधयेज्जिनम्
तं सर्वपापनिर्मुक्तं, भजते श्री शुभप्रदा ………..२६
जिनेशः पूजितो भक्त्या, संस्तुतः प्रस्तुतोऽथवा;
ध्यातस्त्वं यैः क्षणं वाऽपि, सिद्धिस्तेषां महोदया ..२७
श्रीपार्श्वमन्त्रराजान्ते, चिन्तामणिगुणास्पदम्;
शान्तिपुष्टिकरं नित्यं, क्षुद्रोपद्रवनाशनम् ………२८
ऋद्धिसिद्धिमहाबुद्धि-धृतिश्रीकान्तिकीर्तिदम्;
मृत्युंजयं शिवात्मानं, जपनान्नन्दितो जनः ……..२९
सर्वकल्याणपूर्णः स्याज्जरा मृत्युविवर्जितः,
अणिमादिमहासिद्धिं, लक्षजापेन चाप्नुयात् ……३०
प्राणायाममनोमन्त्र, योगादमृतमात्मनि;
त्वामात्मानं शिवंध्यात्वा, स्वामिन् ! सिध्यन्ति जन्तवः ..३१
हर्षदः कामदश्चेति, रिपुघ्रः सर्वसौख्यदः;
पातु वः परमानन्द-लक्षणः संस्मृतो जिनः ………३२
तत्त्वरूपमिदं स्तोत्रं, सर्वमंगलसिद्धिम्;
त्रिसन्ध्यं यः पठेन्नित्यं, नित्यं प्राप्नोति स श्रियम् …३३
।।श्री मंत्राधिराज पार्श्वस्तोत्र Mantradhiraja Parshva Stotra।।
अन्य जैन स्तोत्र संग्रह