Sarasvati Stotra सरस्वती स्तोत्र
(सिद्धसारस्वताचार्य श्रीमद् बप्पभट्टिसूरि कृत)
कलमरालविहङ्गमवाहना, सितदुकूलविभूषणलेपना;
प्रणतभूमिरुहामृतसारिणी, प्रवरदेहविभाभरधारिणी ||1||
अमृतपूर्णकमण्डलुहारिणी, त्रिदशदानवमानवसेविता;
भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम्.||2||
जिनपतिप्रथिताखिलवाड्मयी, गणधराननमण्डपनर्तकी;
गुरुमुखाम्बुजखेलनहंसिका, विजयते जगति श्रुतदेवता.||3||
अमृतदीधितिबिम्बसमाननां, त्रिजगती जननिर्मितमाननाम्;
नवरसामृतवीचिसरस्वतीं, प्रमुदितः प्रणमामि सरस्वतीम्.||4||
विततकेतकपत्रविलोचने! विहितसंसृतिदुष्कृतमोचने !;
धवलपक्षविहङ्गम् लाञ्छिते; जय सरस्वति ! पूरितवाञ्छिते !||5||
भवदनुग्रहलेशतरङ्गिता-स्तदुचितं प्रवदन्ति विपश्चितः;
नृपसभासु यतः कमलाबला, कुचकलाललनानिवितन्वते ||6||
गतधना अपि हि त्वदनुग्रहात्, कलितकोमलवाक्यसुधोर्मयः;
चकितबालकुरङ्गविलोचना, जनमनांसि हरन्तितरां नराः ||7||
करसरोरुहखेलनचञ्चला, तव विभाति वराजपमालिका;
श्रुतपयोनिधिमध्यविकस्वरोजज्वलतरङ्गकलाग्रहसाग्रहा.||8||
द्विरदकेसरिमारिभुजङ्गमा-सहनतस्करराजरुजां भयम्ः
तव गुणावलिगानतरङ्गिणां, न भविनां भवति श्रुतदेवते ! ||9||
ॐ ह्रीं क्लीं ब्लीं ततः श्रीं तदनु हस कल ह्रीं अथो ऐं नमोऽन्ते,
लक्षं साक्षाज्जपेद्यः करसमविधिना सत्तपा ब्रह्माचरी;
निर्यान्तीं चन्द्रबिम्बात्कलयतिमनसा त्वां जगच्चन्द्रिकाभां,
सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन विद्वान् ||10||
रे रे ! लक्षण-काव्य-नाटक-कथा चम्पू-समालोकने,
क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्त्राम्बुजः !,
भक्त्याऽऽराधय मंत्रराजमहसा ऽऽनेनानिशं भारतीं
येन त्वं कवितावितान-सविताऽद्वैतप्रबुद्धायसे.||11||
चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा, स्वाच्छंद्यराज्यप्रदा
ऽनायासेन सुरासुरेश्वरगणै-रभ्यर्चिता भक्तितः
देवी संस्तुतवैभवा मलयजा लेपाङ्ग-रङ्ग-द्युतिः,
सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीवनी.||12||
स्तवनमेतदनेकगुणान्वितं, पठति यो भविकः प्रमनाः प्रगे;
स सहसा मधुरैर्वचनामृतैर्नृपगणानपि रञ्जयति स्फुटम् ||13||
Sarasvati Stotra सरस्वती स्तोत्र
अन्य जैन स्तोत्र संग्रह
श्री चिंतामणी पार्श्वनाथ स्तोत्र
महामंत्रगर्भित श्री कलिकुंड पार्श्वनाथ स्तोत्रम्
श्री मंत्राधिराज पार्श्वस्तोत्र