No. 31 Shree Gruha Shanti Stotra श्री गृह शांति स्तोत्र।

पाठक जीवों के सुख कल्याण और नवग्रह से जुड़ी बाधाओं को शांत  करता है। Shree Gruha Shanti Stotra में विविध परमात्माओं के चरणों में वंदना की गई है। एवं जिनेन्द्र भगवान, देवी देवताओं की विविध विधान से पुष्पगंध, धूप और नैवेद्य आदि के माध्यम से आराधना करने का विशिष्ट विधान बताया गया है।

Shree Gruha Shanti Stotra श्री गृह शांति स्तोत्र।

जगद्‌गुरुं नमस्कृत्य, श्रुत्वा सद्गुरू-भाषितम्; 

ग्रहशान्तिं प्रवक्ष्यामि, भव्यानां सुखहेतवे                  1

जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात्; 

पुष्पैर्विलेपनैर्धूपै, नैवेद्यैस्तुष्टिहेतवे.                           2

पद्मप्रभस्य मार्तंड-श्चन्द्रश्चन्द्रप्रभस्य च; 

वासुपूज्यस्य भूपुत्रो, बुधस्याऽष्टौ जिनेश्वराः…             3

विमलानन्तधर्माऽराः, शान्तिः कुन्थुर्नमिस्तथा; 

वर्धमानो जिनेन्द्राणां, पादपद्मे बुधो न्यसेत्………        4

ऋषभाजितसुपार्श्व-श्चाभिनन्दनशीतलौ 

सुमतिः संभवस्वामी, श्रेयांसश्च बृहस्पतिः.                 5

सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्चरः, 

नेमिनाथस्य राहुः स्यात्, केतुः श्रीमल्लिपार्श्वयोः….      6

जन्मलग्ने च राशौ च, यदा पीडन्ति खेचराः; 

तदा संपूजयेद्धीमान्, खेचरैः सहितान् जिनान्…..      7

पुष्पगंधादिभिर्धूपैर्नैवेद्यैः फलसंयुतैः, 

वर्णसदृशदानैश्च, वस्त्रैश्च दक्षिणान्वितैः.                   8

ॐ आदित्य सोम मंगल बुध गुरु शुक्र-शनैश्चर 

राहु केतु सहिताः खेटा जिनपतिपुरतोऽवतिष्ठन्तु.)

जिनानामग्रतः स्थित्वा ग्रहाणां शान्तिहेतवेः 

नमस्कारशतं भक्त्या, जपेदष्टोत्तरं शतम् .               9

भद्रबाहुरुवाचैवं, पंचमः श्रुतकेवलीः 

विद्याप्रवादतः पूर्वाद् ग्रहशान्तिविधि श्रुतम् ..            10

१. सूर्यपूजा-पद्मप्रभजिनेन्द्रस्य, नामोच्चारेण भास्कर !; 

    शान्तिं तुष्टिं च पुष्टिं च रक्षां कुरु जयश्रियम्               

२. चंद्रपूजा-चंद्रप्रभजिनेन्द्रस्य, नाम्ना तारागणाधिप !; 

    प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम्. 

३. भौमपूजा-सर्वदावासुपूज्यस्य, नाम्ना शान्तिं जयश्रियम्; 

    रक्षां कुरु धरासुत !; अशुभोपि शुभो भव 

४. बुधपूजा-विमलानन्तधर्मारा, शान्तिः कुंथुर्नमिस्तथा; 

    महावीरश्च तन्नाम्ना, शुभोभव सदा बुध !. 

५. गुरुपूजा-ऋषभाजितसुपार्श्वश्चाभिनंदनशीतलौ; 

    सुमति संभवस्वामी, श्रेयांसश्च जिनोत्तमाः  

    एतत्तीर्थकृतां नाम्ना पूज्या च शुभोभव !; 

    शान्तिं तुष्टिं च पुष्टिं च कुरु देवगणार्चित ! 

६. शुक्रपूजा-पुष्पदन्तजिनेन्द्रस्य, नाम्ना दैत्यगणार्चित !: 

    प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम्. 

७. शनैश्चरपूजा-श्री-सुव्रतजिनेन्द्रस्य, नाम्ना सूर्यागसंभव !; 

     प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम्…

८. राहुपूजा-श्रीनेमिनाथतीर्थेश, नाम्ना त्वं सिंहिकासुत !; 

    प्रसन्नो भव शान्तिं च रक्षां कुरु जयत्रियम् ……..

९. केतुपूजा-राहोः सप्तमराशिस्थ, कारणे दृश्यतेऽम्बरे; 

    श्री मल्लीपार्श्वयो र्नाम्ना, केतो ! शान्तिं श्रियं कुरु 

इति भणित्वा स्वस्ववर्ण कुसुमांजलि प्रक्षेपेण जिनग्रहाणां पूजा कार्या, 

तेन सर्वपीडायाः शान्तिर्भवति.

अथवा सर्वेषां ग्रहाणामेकदा पीडायामयं विधिः 

नवकोष्ठकमालेख्य, मंडलं च तुरस्रकम्, 

ग्रहास्तत्र प्रतिष्ठाप्याः वक्ष्यमाणः क्रमेणतु.             १

मध्ये हि भास्करःस्थाप्यः, पूर्वदक्षिणतः शशी; 

दक्षिणस्यां धरासूनुर्बुधः पूर्वोत्तरेण च                   २

उत्तरस्यां सुराचार्यः, पूर्वस्यां भृगुनंदनः 

पश्चिमायां शनिः, स्थाप्यो राहुर्दक्षिणपश्चिमे.           ३

पश्चिमोत्तरतः केतुरिति स्थाप्याः क्रमाद् ग्रहाः

पटटस्थालेऽथवाग्नेय्यां, इशान्यां तु सदा बुधैः         ४

अथास्मिन् रिष्टग्रहे कस्य जिनस्य 

कयारीत्या पूजा-कार्या तदाडख्याति.

१. रविपीडायां-रक्तपुष्पैः श्रीप‌द्मप्रभुपूजा कार्या, 

   ॐ ह्रीं नमो सिद्धाणं, तस्य अष्टोत्तरशतजापः कार्यः

२. चंद्रपीडायां-चंदनेन सेवन्ति पुष्पैः श्रीचन्द्रप्रभपूजा कार्या 

   ॐ ह्रीं नमो आयरियाणं, तस्य अष्टोतरशतजापः कार्यः

३. भौमपीडायां-कुंकुमेन च रक्तपुष्पैः श्रीवासुपूज्यपूजा विधेया, 

    ॐ ह्रीं नमो सिद्धाणं, तस्य अष्टोत्तरशतजापः कार्यः

४. बुधपीडायां-दुग्धस्नाननैवेद्यफलादितः श्रीशान्तिनाथपूजा कर्तव्या, 

    ॐ ह्रीं नमो आयरियाणं, तस्य अष्टोत्तरशतजापः कार्यः

५ गुरुपीडायां दधिभोजनेन जंबिरादिफलेन च 

   चंदनादिविलेपनेन श्रीआदिनाथपूजा करणीया, 

   ॐ ह्रीं नमो आयरियाणं, तस्य १०८ जापः कार्यः

६. शुक्रपीडायां-श्रीश्वेतपुष्पैश्चंदनादिना

    श्रीसुविधिनाथपूजा कार्या, चैत्ये घृतदानं कार्य 

    ॐ ह्रीं नमो अरिहंताणं, तस्य १०८ जापः कार्यः

७. शनैश्चरपीडायां-नीलपुष्पैः 

    श्रीमुनिसुव्रतपूजा कार्या, तैलस्नानदाने कर्तव्ये, 

    ॐ ह्रीं नमो लोए सव्वसाहूणं, तस्य १०८ जापः कार्यः

८. राहुपीडायां-नीलपुष्पैः श्रीनेमिनाथपूजा, करणीया, 

    ॐ ह्रीं नमो लोए सव्वसाहूणं, तस्य १०८ जापः कार्यः

९. केतुपीडायां-दाडिमादिपुष्पैः श्रीपार्श्वनाथपूजा कार्या, 

    ॐ ह्रीं नमो लोए सव्वसाहूणं, तस्य १०८ जापः कार्य.

सर्वग्रहपीडायां-श्रीसूर्यसोमांगारबुधबृहस्पतिशुक्रशनैश्चर-

राहुकेतवः ! सर्वग्रहाः मम सानुग्रहाः भवन्तु स्वाहा, 

ॐ ह्रीं असिआउसाय नमः स्वाहा, 

तस्य १०८ जापः कार्यः, तेन नवग्रहपीडोपशान्तिः स्यात्

 

अन्य जैन स्तोत्र संग्रह 

श्री बृहद ऋषिमंडल स्तोत्र

भक्तामर स्तोत्र

संतिकरं स्तोत्र

श्री नाकोड़ा भैरव जी 

श्री अंबिकादेवी मंत्र युक्ताष्टक स्तोत्र

 

 

Leave a comment

Your email address will not be published. Required fields are marked *