कल्याण मंदिर स्तोत्र
Kalyan Mandir Stotra
कल्याण-मंदिरमुदारमवद्य भेदि,
भीताभय-प्रदमनिन्दितमध्रि-पद्मम्;
संसार-सागर-निमज्जदशेष-जन्तु-
पोतायमानमभिनम्य जिनेश्वरस्य. ……..१
यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः,
स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्;
तीर्थेश्वरस्य कमठ-स्मय-धूमकेतो,
स्तस्याहमेष क्लि संस्तवनं करिष्ये (युग्मम्). २
सामान्यतोऽपि तव वर्णयितुं स्वरूप-
मस्मादृशाः कथमधीश ! भवन्त्यधीशाः ?;
धृष्टोऽपि कौशिक-शिशुर्यदिवा दिवान्धो,
रूपं प्ररूपयति किं किल घर्मरश्मेः?. …….३
मोहक्षयादनुभवन्नपि नाथ! र्मत्यो,
नूनं गुणान् गणयितुं न तव क्षमेत;
कल्पान्त-वान्त-पयसः प्रकटोऽपि यस्मान्
मीयेत केन जलधेर्ननु रत्नराशिः?. ………४
अभ्युद्यतोऽस्मि तव नाथ! जडाशयोऽपि,
कर्तुं स्तवं लसदसंख्य-गुणाकरस्य;
बालोऽपि किं न निजबाहु-युगं वितत्य,
विस्तीर्णतां कथयति स्व-धियाम्बु-राशेः?. ………५
ये योगिनामपि न यान्ति गुणास्तवेश ?,
वक्तुं कथं भवति तेषु ममावकाशः ?;
जाता तदेवमसमीक्षित-कारितेयं,
जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि. ……….६
आस्तामचिन्त्य-महिमा-जिन संस्तवस्ते,
नामापि पाति भवतो भवतो जगन्ति;
तीव्रातपोपहत-पान्थ-जनान्निदाघे,
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि. ……….७
हृद्वर्त्तिनि त्वयि विभो ! शिथिलीभवन्ति,
जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः;
सद्यो भुजंगममया ईव मध्यभाग-
मभ्यागते वन शिखण्डिनि चन्दनस्य. ……….८
मुच्यन्त एव मनुजाः सहसा जिनेन्द्र !,
रौद्रैरुपद्रव शतैस्त्वयि वीक्षितेऽपिः
गो-स्वामिनि स्फुरित-तेजसि दृष्टमात्रे,
चौरैरिवाशु पशवः प्रपलायमानैः. ……..९
त्वं तारको जिन ! कथं भविनां त एव,
त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः;
यद्वा दृतिस्तरति यज्जलमेष नून-
मन्तर्गतस्य मरुतः स किलानुभावः. ……….१०
यस्मिन् हर-प्रभृतयोऽपि हतप्रभावाः,
सोऽपि त्वया रतिपतिः क्षपितः क्षणेन;
विध्यापिता हुत-भुजः पयसाथ येन,
पीतं न किं तदपि दुर्द्धर-वाडवेन?. …………११
स्वामिन्ननल्प-गरिमाणमपि प्रपन्ना-
स्त्वां जन्तवः कथमहो हृदये दधानाः?;
जन्मोदधिं लघु तरन्त्यति-लाघवेन,
चिन्त्यो न हन्त महतां यदि वा प्रभावः. ……….१२
क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो,
ध्वस्तास्तदा तब कथं किल कर्म-चौराः?;
प्लोषत्यमुत्र यदि वा शिशिराऽपि लोके;
नीलद्रुमाणि विपिनानि न किं हिमानी?. ………१३
त्वां योगिनो जिन ! सदा परमात्म-रूप-
मन्वेषयन्ति हृदयाम्बुज-कोश-देशे;
पूतस्य निर्मल-रुचेर्यदि वा किमन्य-
दक्षस्य संभवि पदं ननु कर्णिकायाः?. ………..१४
ध्यानाज्जिनेश ! भवतो भविनः क्षणेन,
देहं विहाय परमात्म-दशां व्रजन्ति;
तीव्रानलादुपल-भावमपास्य लोके,
चामीकरत्वमचिरादिव धातु-भेदाः. ………..१५
अंतः सदैव जिन ! यस्य विभाव्यसे त्वं,
भव्यैः कथं तदपि नाशयसे शरीरम्?;
एतत्स्वरूपमथ मध्य-विवर्त्तिनो हि,
यद्विग्रहं प्रशमयन्ति महानुभावाः; ……….१६
आत्मा मनीषिभिरयं त्वदभेद-बुद्ध्या;
ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः,
पानीयमप्यमृतमित्यनुचिन्त्यमानं,
किं नाम नो विष-विकारमपाकरोति ?. ………१७
त्वामेव वीत-तमसं परवादिनोऽपि,
नूनं विभो ! हरि-हरादि-धिया प्रपन्नाः;
किं काच कामलिभिरीश ! सितोऽपि शंखो,
नो गृह्यते विविध-वर्ण-विपर्ययेण? ………..१८
धर्मोपदेश-समये स-विधानुभावा-
दास्तां जनो भवति ते तरुरप्यशोकः;
अभ्युद्गते दिनपतौ स-महीरुहोऽपि,
किंवा विबोधमुपयाति न जीव-लोकः. ……….१९
चित्रं विभो ! कथमवाङ्मुख-वृन्तमेव,
विष्वक् पतत्यविरला सुर-पुष्प-वृष्टिः?;
त्वद्गोचरे सु-मनसां यदि वा मुनीश ?,
गच्छन्ति नूनमध एव हि बंधनानि. …………२०
स्थाने गभीर-हृदयोदधि-संभवायाः,
पीयुषतां तव गिरः समुदीरयंति;
पीत्वा यतः परम-संमद-संग-भाजो;
भव्या व्रजन्ति तरसाप्यजरामरत्वम्. ………..२१
स्वामिन् ! सु-दूरमवनम्य समुत्पतन्तो,
मन्ये वदन्ति शुचयः सुर-चामरौघाः,
येऽस्मै नतिं विदधते मुनि पुंगवाय,
ते नुनमूर्ध्व-गतयः खलु शुद्ध भावाः. ………..२२
श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न-
सिंहासन-स्थमिह भव्य-शिखण्डिनस्त्वाम्;
आलोकयन्ति रभसेन नदन्तमुच्चै-
श्चामीकराद्रि-शिरसीव नवाम्बुवाहम्. ………२३
उद्गच्छता तव शिति-द्युति-मण्डलेन,
लुप्तच्छदच्छविरशोक-तर्रुबभूव;
सान्निध्यतोऽपि यदि वा तव वीतराग !,
नीरागतां व्रजति को न सचेतनोऽपि. …………२४
भो भो प्रमादमवधूय भजध्वमेन,
मागत्य निर्वृति-पुरीं प्रति सार्थवाहम्;
एतन्निवेदयति देव! जगत्त्रयाय,
मन्ये नदन्नभि-नभः सुर-दुंदुभिस्ते. ……….२५
उद्योतितेषु भवता भुवनेषु नाथ!
तारान्वितो विधुरयं विहताधिकारः;
मुक्ता-कलाप-कलितोच्छ्वसितातपत्र,
व्याजात्त्रिधा धृत-तनुर्भुवमभ्युपेतः. ………..२६
स्वेन प्रपूरित-जगत्त्रय-पिण्डितेन,
कान्ति-प्रताप-यशसामिव संचयेन;
माणिक्य-हेम-रजत प्रविनिर्मितेन,
साल-त्रयेण भगवन्नभितो विभासि. ……….२७
दिव्य-स्रजो जिन ! नमत्त्रि-दशाधिपाना-
मुत्सृज्य रत्न-रचितानपि मौलि-बन्धान्,
पादौ श्रयन्ति भवतो यदि वा परत्र,
त्वत्संगमे सुमनसो न रमन्त एव. ………२८
त्वं नाथ! जन्म-जलधेर्विपराङ्मुखोऽपि,
यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान्;
युक्तं हि पार्थिव-निपस्य सतस्तवैव,
चित्रं विभो यदसि कर्म-विपाक-शून्यः. ……….२९
विश्वेश्वरोऽपि जन-पालक ! दुर्गतस्त्वं,
किं वाक्षर-प्रकृतिरप्यलिपिस्त्वमीश!;
अ-ज्ञानवत्यपि सदैव कथंचिदेव,
ज्ञानं त्वयि स्फुरति विश्व-विकाश-हेतुः. ………३०
प्राग्भार-संभृतनभांसि रजांसि रोषा-
दुत्थापितानि कमठेन शठेन यानि;
छायापि तैस्तव न नाथ! हता हताशो,
ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा. ………..३१
यद् र्गज्जदूर्जित-घनौघ-मदभ्र-भीमं,
भ्रश्यत्तडिन्मुसल-मांसल-घोर-धारम्;
दैत्येन मुक्तमथ दुस्तर-वारि दघ्रे;
तेनैव तस्य जिन ! दुस्तरवारि-कृत्यम्. ………..३२
ध्वस्तोर्ध्व-केशविकृताकृति-र्मत्य-मुण्ड-
प्रालम्ब-भृद्-भयद-वक्त्रविनिर्यदग्निः;
प्रेत-व्रजः प्रतिभवन्तमपीरितो यः,
सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः. ………..३३
धन्यास्त एव भुवनाधिप ! ये त्रि-सन्ध्य-
माराधयन्ति विधिवद्विधूतान्य-कृत्याः;
भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः,
पाद-द्वयं तव विभो ! भुवि जन्म-भाजः. ………..३४
अस्मिन्नपार-भव-वारि-निधौ मुनीश!,
मन्ये न मे श्रवण-गोचरतां गतोऽसि;
आकर्णिते तु तव गोत्र-पवित्र-मन्त्रे,
किंवा विपद्विष-धरी स-विधं समेति ?. ……….३५
जन्मान्तरेऽपि तव पाद-युगं न देव!,
मन्ये मया महित-मीहित-दान-दक्षम्;
तेनेह जन्मनि मुनीश ! पराभवानां,
जातो निकेतनमहं मथिताशयानाम्. ………३६
नूनं न मोह-तिमिरावृत-लोचनेन,
पूर्व विभो ! सकृदपि प्रविलोकितोऽसि;
मर्माविधो विधुरयन्ति हि मामनर्थाः,
प्रोद्यत्प्रबन्ध-गतयः कथमन्यथैते? ………३७
आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि,
नूनं न चेतसि मया विधृतोऽसि भक्त्या;
जातोऽस्मि तेन जनबान्धव! दुःख-पात्रं,
यस्मात्क्रियाः प्रतिफलन्ति न भाव-शून्याः. ………..३८
त्वं नाथ ! दुःखि-जन-वत्सल! हे शरण्य !
कारुण्य-पुण्य-वसते ! वशिनां वरेण्य!;
भक्त्या नते मयि महेश ! दयां विधाय,
दुःखांकुरोद्दलन-तत्परतां विधेहि. …………३९
निःसंख्य-सार-शरणं शरणं शरण्य-
मासाद्य सादित-रिपु प्रथितावदातम्ः
त्वत्पाद-पंकजमपि प्रणिधान-वन्ध्यो,
वध्योऽस्मि चेद् भुवन-पावन ! हा हतोऽस्मि. ……….४०
देवेन्द्र-वन्द्य! विदिताखिल-वस्तु-सार!,
संसार-तारक ! विभो ! भुवनाधिनाथ!;
त्रायस्व देव! करुणा-हृद ! मां पुनीहि,
सीदन्तमद्य भयद-व्यसनाम्बु-राशेः. ……….४१
यद्यस्ति नाथ! भवदंघ्रि-सरो-रुहाणां,
भक्तेः फलं किमपि संतति-संचितायाः;
तन्मे त्वदेक-शरणस्य शरण्य ! भूयाः,
स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि. ………..४२
इत्थं समाहित-घियो विधिवज्जिनेन्द्र!,
सान्द्रोल्लसत्पुलक-कंचुकितांग-भागाः;
त्वद्-बिम्ब-निर्मल-मुखाम्बुज-बद्ध-लक्ष्या,
ये संस्तवं तव विभो ! रचयन्ति भव्याः …………..४३
जन-नयन-कुमुद-चन्द्र !,
प्रभा-स्वराः स्वर्ग-संपदो भुक्त्वाः
ते विगलित-मल-निचया,
अ-चिरान्मोक्षं प्रपद्यन्ते. युग्मम्. ……….४४
Kalyan Mandir Stotra कल्याण मंदिर स्तोत्र
अन्य जैन स्तोत्र संग्रह