No. 17 Hrimkar Vidhya Stavan हीँकार विद्या स्तवन

 हीँकार विद्या स्तवन (Hrimkar Vidhya Stavan) सभी कामनाओं को पूर्ण करने वाला स्तोत्र बताया। यदि गुरुगम से प्राप्त करके इसे उपांशु जाप करें तो यह अद्भुत फल देता है।हीँकार से विद्या प्राप्ति, लक्ष्मीप्राप्ति, शत्रु भयनाश, सुख,समृद्धि और अष्ट सिद्धि इत्यादि की प्राप्ति होती है। यह अत्यंत प्रभाव बीजाक्षर युक्त महास्तोत्र है। इसे हीँकार विद्या स्तवन भी कहा गया है।

      Hrimkar Vidhya Stavan हीँकार विद्या स्तवन

सर्वण पार्श्व लय मध्यसिद्धमधीश्वरं भास्वरूप भासम् । 

खण्डेन्दु बिन्दु स्फुटनाद शोभं, त्वां शक्ति बीजं प्रमनाः प्रणौमि. १

ह्रींकारमेकाक्षरमादिरूपं, मायाक्षरं कामदमादिमन्त्रम् ।

त्रैलोक्यवर्णं परमेष्ठिबीजं, विज्ञाः स्तुवन्तीश भवर्तामत्थम्. …..२

शिष्यः सुशिक्षां सुगुरोरवाप्य, शुर्चीवशी धीरमनाश्च मौनी। 

तदात्मबीजस्य तनोतु जापमुपांशु, नित्यं विधिना विधिज्ञः. …..३

त्वां चिन्तयन् श्वेतकरानुकारं, ज्योत्स्नामयीं पश्यति यस्त्रिलोकीं 

श्रयन्ति तं तत्क्षणतोऽनवद्यविद्या कलाशान्तिक पौष्टिकानि. …४

त्वामेव बालारुणमण्डलाभं, स्मृत्वा जगत् त्वत्करजालदीप्रम् ।

विलोकते यः किल तस्य विश्वं, विश्वं भवेत् वश्यमवश्यमेव. ….५

यस्तप्त चामीकरचारु दीप्रं, पिङ्गः प्रभं त्वां कलयेत् समन्तात्।

सदा मुदा तस्य गृहे सहेलिं, करोति केलि कमला चलाऽपि. ….६

यः श्यामलं कज्जलमेचकाभं, त्वां वीक्षते वा तुषधूमधूम्रम् । 

त्रिपक्ष पक्षः खलुतस्य वाता-हताऽभ्रवद् यात्यचिरेण नाशम् …..७

आधारकन्दोद्गततन्तु सूक्ष्म लक्ष्योद्भवं ब्रह्मसरोज वासम्।

यो ध्यायति त्वां स्रवदिन्दुबिम्बा मृतं च स्यात् कविसार्वभौमः. ….८

षड्दर्शनी स्वस्वमतापलेपैः, स्वे दैवते तन्मय बीजमेव । 

ध्यात्वा तदाराधन वैभवेन भवेदजेयः परवादि वृन्दैः. ………….९

किं मन्त्रतन्त्रैर्विविधागमोक्तैः दुःसाध्य-संशीतिफलात्मलाभैः। 

सुसेव्यः सद्यः फलचिन्तितार्था-धिकप्रदश्वेदसि चेत्त्वमेकः. ……..१०

चौरारि-मारि ग्रह रोग लूता भूतादि दोषानल बन्धनोत्थाः । 

भियः प्रभावात् तव दूरमेव, नश्यन्ति पारीन्द्ररवादिवेभाः. ………११

प्राप्नोत्यपुत्रः सुतमर्थहीनः, श्री दायते पत्तिरपीशतीह। 

दुःखी सुखी चाथ भवेन्न किं किं, तद्रुप चिंतामणि चिन्तनेन. ……१२

पुष्पादि जापामृत होम पूजा, क्रियाधिकारः सकलोऽस्तु दूरे। 

य केवलं ध्यायति बीजमेव सौभाग्य-लक्ष्मीर्वृणुते, स्वयं तम्. …….१३

तत्त्वतोऽपि लोकाःसुकृतार्थकाम, मोक्षान् पुमर्थांश्चतुरांलभन्ते । 

यास्यन्ति याता अथ यान्ति ये ते, श्रेयःपदं त्वन्महिमालवः सः. …..१४

विधाय यः प्राक्प्रणवं नमोऽन्ते, मध्ये कबीजं ननु जज्जपीति । 

तस्यैकवर्णा वितनोत्यवध्या कामार्जुनी कामितमेव विद्या. …….१५

मालामिमां स्तुतिमयी, सुगुणां त्रिलोकी, 

बीजस्य यः स्वहृदये निधयेत् क्रमात् स:!

अड्केऽष्टसिद्धि रभसा लुठतीह तस्य, 

नित्यं महोत्सवपदं लभते क्रमात् सः ….१६

 Hrimkar Vidhya Stavan हीँकार विद्या स्तवन 

अन्य जैन स्तोत्र संग्रह 

पंचषष्ठि स्तोत्र 

जिनपंजर स्तोत्र 

तिजयपहूत्त स्तोत्र

संतिकरं स्तोत्र

Leave a comment

Your email address will not be published. Required fields are marked *